सोमवार, 21 जनवरी 2013

काली कवचम्

विनियोग ॐ अस्य कालिका कवचस्य भैरव ऋषिः गायत्री छंदः श्री कालिका देवता ह्रीं बीजं ह्रूं शक्तिः क्लीं कीकलम शत्रुसंघ नाशनार्थे जपे पाठे च विनियोगः ऋष्यादि न्यास – भैरव ऋषये नमः शिरसि,गायत्रीच्छंदसे नमः मुखे, श्रीकालिका देवतायै नमः हृदये , ह्रीं बीजाय नमः गुह्ये, ह्रूं शक्तये नमह पादयोः, क्लीं कीलकाय नमः सर्वांगे ।। करन्यास - ॐ क्रां अंगुष्ठाभ्यां नमः ॐ क्रीं तर्जनीभ्यां नमः ॐ क्रूं मध्यमाभां नमः ॐ क्रैं अनामिकाभ्यां नमः ॐ क्रौं कनिष्ठिकाभ्यां नमः ॐ क्रः करतल कर पृ्ष्ठाभ्यां नमः हृद्यादिन्यास ॐ क्रां हृदयाय नमः ॐ क्रीं शिरसे स्वाहा ॐ क्रूं शिखायै वषट ॐ क्रैं कवचाय हुम् ॐ क्रौं नेत्रत्रयाय वौषट् ॐ क्रः अस्त्राय फट् ध्यानम्- ध्यायेत कालीं महामायां त्रिनेत्रां बहुरूपिणीं। चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननां।। नीलोत्पलदलश्यामां शत्रुसंघविदारिणीं। नरमुण्डं तथा खड्गं कमलं वरदं तथा।। विभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीं। अट्टाट्टहासनिरतां सर्वदा च दिगंबराम्।। शवासनस्थितां देवीं मुण्डमाला विभूषणाम्। इति ध्यात्वा महादेवीं ततस्तु कवचं पठेत्।। कवचम्- कालिका घोर रूपाद्या सर्व कामफलप्रदा । सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे।। ॐ ह्रीं स्वरूपिणीं चैव ह्रां ह्रीं ह्रूं रूपिणीं तथा। ह्रां ह्रीं ह्रैं ह्रौं स्वरूपा च सदा शत्रून प्रणश्यति।। ॐ ऎं ह्रीं रूपिणीं देवी भवबन्ध विमोचिनी। ह्रां सकलां ह्रीं रिपूंश्च, सा ह्न्तु सर्वदा मम।। यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः। वैरिनाशाय वंदे तां कालिकां शंकरप्रियाम ।। ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका। कौमार्येन्द्री च चामुण्डा खादन्तु मम विद्विषः।। सुरेश्वरी घोर रूपा चण्ड मुण्ड विनाशिनी। मुण्डमाला धृतांगी च सर्वतः पातु माम सदा।। मंत्रः ह्रां ह्रीं कालिके घोरदंष्ट्रे रुधिरप्रिये रुधिरपूर्णवक्त्रे रुधिरवृतस्तनी मम सर्व शत्रून् खादय खादय हिंस्र हिंस्र मारय मारय भिन्धि भिन्धि छिन्धि छिन्धि उच्चाटय उच्चाटय, विद्रावय विद्रावय, शोषय शोषय स्वाहा। रां रींकारायै मदीय शत्रून् संमर्दय स्वाहा । मम जय जय जय कुरु कुरु शत्रून् किट् किट् मर्द मर्द मोहय मोहय हर हर मम रिपून् ध्वंस ध्वंस भक्ष भक्ष त्रोटय त्रोटय यातुधानिके चामुण्डे सर्वजनान् राजपुरुषान् स्त्रियः मम कुरु कुरु अश्वान् गजान् दिव्यकामिनीं पुत्रान् राज्यं श्रियं देहि देहि नूतनं धान्यं धनं यच्छ रक्ष क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा

गुरुवार, 10 सितंबर 2009